स्मृतिप्रतिपादितं न्यायालयस्वरूपविमर्शः

Exploring the Nature of Justice in Vedic Law

by Kuldeep Singh*,

- Published in Journal of Advances and Scholarly Researches in Allied Education, E-ISSN: 2230-7540

Volume 16, Issue No. 4, Mar 2019, Pages 1053 - 1055 (3)

Published by: Ignited Minds Journals


ABSTRACT

संस्कृतशास्त्रपरम्परा वैदिककालादेव मानवस्य शिवत्वसिद्धये नितराम् उपकारिणी विराजते। वेदानामेव वेदप्रतिपादितधर्मादिसाधनानां वा अर्थप्रतिपत्तये स्मृतिशास्त्रं प्रविधरूपेण ऋषिभिः कलितम्। स्मृतिशास्त्रे न्यायस्य यत् स्वरूपमवतरितमस्ति तच्च स्वरूपं वेदेष्वपि लभ्यते। वैदिककाले ‘सभा’ इति शब्दः न्यायालयपर्यायरूपेण परिलक्ष्यते। वेदेषु सभासमितिशब्दयोः प्रचुरविचारः लभ्यते। वसिष्ठेन सभा स्थाने ‘सदः’ इति शब्दप्रयोगः न्यायालयस्य कृते कृतः। ‘‘अथ व्यवहारः। राजमन्त्री सदः कार्याणि कुर्यात्।’’[1] राजमन्त्री न्यायालयस्य कार्यम् अथवा व्यवहारावलोकनकार्यं करोति स्म। शंखः स्वकीये स्मृतिग्रन्थे न्यायालयसंज्ञा ‘धर्म-स्थानम्’ इति रूपेण प्रस्तौति। धर्मस्थानस्य निर्माणं शंखेन पूर्वदिशि प्रास्तावि। तत्र जलाग्नेः च व्यवस्था भवेत्। सम्भवतो अग्निव्यवस्थापनं तत्र दिव्यपरीक्षार्थमासीत्।[2]

KEYWORD

संस्कृतशास्त्रपरम्परा, वेदप्रतिपादितधर्मा, स्मृतिशास्त्रं, न्यायस्य, वेदेष्वपि, न्यायालयपर्यायरूपेण, सभासमितिशब्दयोः, न्यायालयस्य, धर्म-स्थानम्, जलाग्नेः