मनुष्यानां जीवने ऋग्वेदस्य महत्वम्
Importance of the Rigveda in Human Life
by Debabrata Mukherjee*,
- Published in Journal of Advances and Scholarly Researches in Allied Education, E-ISSN: 2230-7540
Volume 16, Issue No. 6, May 2019, Pages 359 - 361 (3)
Published by: Ignited Minds Journals
ABSTRACT
चत्वारः वेदाः भवन्ति । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतांऋषीणां योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति । संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि ।
KEYWORD
मनुष्यानां, जीवने, ऋग्वेदस्य, वेदाः, सूक्तानि, ऋषिः, छन्दः, देवता, धर्मव्यवस्था