कालिदासे शाकुंतलनाटक: सारसंग्रह:

शाकुंतलनाटक: संस्थान और सन्दर्भ

Authors

  • Nisha Kumari Author
  • Dr. Sundra Mathto Author

Keywords:

कालिदासे, शाकुंतलनाटक, सारसंग्रह, कविकुलगुरोः, महाकवेः, जन्म, जन्मस्थानविषये, विचारकविदुषां, वैमत्यं, विद्वांसः

Abstract

कविकुलगुरोः महाकवेः कालिदासस्य जन्म कुत्र कदा चाभूत् इति विषये न किमपि निश्चिततया वक्तुं शक्रुमः। अस्य जन्म विषये जन्मस्थानविषये च विचारकविदुषां वैमत्यं विद्यते। तथाप्यस्य जन्मविषये प्रायः भारतीयाः विद्वांसो वदन्ति यद् विक्रमादित्यस्य विक्रमसंवत्सरसंस्थापकस्य राज्यात् पूर्वं प्रथम शताब्द्यां महाकवेः कालिदासस्य संस्थिति रासीत्। पाश्चात्याश्च प्रायः सर्वेSस्य कवेः स्थितिम् ईसवीये चतुर्थं शतके गुप्तसाम्राज्ये स्वीकुर्वन्ति। महाकवेः कालिदासस्य प्राधान्येन सप्तैव रचनाः सन्ति, इति स्वीकुर्वन्ति विद्वांसः। रचनानां नामानि – कुमारसंभवमहाकाव्यं, रघुवंशमहाकाव्यञ्चेति द्वे महाकाव्ये, ऋतुसंहारम् मेघदूतञ्चेति द्वे खण्डकाव्ये अभिज्ञानशाकुन्तलम् विक्रमोवर्शीयं मालविकाग्रिमित्रञ्चेति त्रीणि नाटकानि एवं सत्व काव्यग्रन्थानेष महाकविः रचयामास। महाकविः नाट्यलेखनकलाकुशलो बभूव। अस्य नाटकेषु घटनासौष्टवं, स्वाभाविकविषयवर्णनं,चरित्रानुसारिपात्रचयनं, स्वभावोपस्थिताभिनयं, काव्ये रसपारिकम् सुतरां विलोकयामः।

Downloads

Download data is not yet available.

Downloads

Published

2017-04-01

How to Cite

[1]
“कालिदासे शाकुंतलनाटक: सारसंग्रह:: शाकुंतलनाटक: संस्थान और सन्दर्भ”, JASRAE, vol. 13, no. 1, pp. 1142–1146, Apr. 2017, Accessed: Feb. 18, 2026. [Online]. Available: https://ignited.in/index.php/jasrae/article/view/6698